२०२२०६२६

हिन्दुराष्ट्र संघटकं सुजन वंदनीयम्‌

हिन्दुराष्ट्र संघटकं सुजन वंदनीयम्‌ ।
केशवं स्मरामि सदा परमपूजनीयम्‌ ॥धृ॥ 

राष्ट्रमिदं हिन्दुनां खलु सनातनम्‌
विघटनया जातं चिर दास्य भाजनम्‌ ।
दुःखदैन्य पीडितमिति पीडित हृदयम्‌
केशवं स्मरामि सदा परमपूजनीयम्‌ ॥१॥ 

भगवध्वज एवराष्ट्र गुरुरयं महान्‌
देशोयं खलु देवो जगति महियान ।
उपदिशन्तमिति सारं दृढमाचरणीयम्‌
केशवं स्मरामि सदा परमपूजनीयम्‌ ॥२॥ 

वीरव्रतमेव परं धर्म निधानम्‌
सुशीलमेव लोकेस्मिन परम निधानम्‌ ।
बोधयन्त मिति तत्त्वम्‌ सततस्मरणीयम्‌
केशवं स्मरामि सदा परमपूजनीयम्‌ ॥३॥ 

नेतुम्‌ निजराष्ट्रमिदं परमवैभवम्‌
नयत विलयमंतर्गत सकल भेदभावम्‌ ।
संघमंत्रमिति जपन्त मेकमेशनीयम्‌
केशवं स्मरामि सदा परमपूजनीयम्‌ ॥४॥


कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा