२०२३०७०७

एकात्मता स्तोत्र

ॐ सच्चिदानन्दरूपाय नमोऽस्तु परमात्मने ।
ज्योतिर्मयस्वरूपाय विश्वमाङ्गल्यमूर्तये ॥ १ 

प्रकृतिः पञ्चभूतानि ग्रहा लोकाः स्वरास्तथा ।
दिशः कालश्च सर्वेषां सदा कुर्वन्तु मङ्गलम् ॥ २  

रत्नाकराधौतपदां हिमालयकिरीटिनीम् ।
ब्रह्मराजर्षिरत्नाढ्यां वन्दे भारतमातरम् ॥  

महेन्द्रो मलयः सह्यो देवतात्मा हिमालयः ।
ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा ॥ ४  

गङ्गा सरस्वती सिन्धुर्ब्रह्मपुत्रश्च गण्डकी ।
कावेरी यमुना रेवा कृष्णा गोदा महानदी ॥ ५  

अयोध्या मथुरा माया काशीकाञ्ची अवन्तिका ।
वैशाली द्वारिका ध्येया पुरी तक्षशिला गया ॥ ६  

प्रयागः पाटलीपुत्रं विजयानगरं महत् ।
इन्द्रप्रस्थं सोमनाथः तथाSमृतसरः प्रियम् ॥ ७ 

चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा ।
रामायणं भारतं च गीता सद्दर्शनानि च ॥ ८ ॥ 

जैनागमास्त्रिपिटकाः गुरुग्रन्थः सतां गिरः ।
एषः ज्ञाननिधिः श्रेष्ठः श्रद्धेयो हृदि सर्वदा ॥ ९ ॥ 

अरुन्धत्यनसूया च सावित्री जानकी सती ।
द्रौपदी कण्णगी गार्गी मीरा दुर्गावती तथा ॥ १० ॥ 

लक्ष्मीरहल्या चन्नम्मा रुद्रमाम्बा सुविक्रमा ।
निवेदिता सारदा च प्रणम्या मातृदेवताः ॥ ११ ॥ 

श्रीरामो भरतः कृष्णो भीष्मो धर्मस्तथार्जुनः ।
मार्कण्डेयो हरिश्चन्द्र: प्रह्लादो नारदो ध्रुवः ॥ १२ ॥ 

हनुमान्‌ जनको व्यासो वसिष्ठश्च शुको बलिः ।
दधीचिविश्वकर्माणौ पृथुवाल्मीकिभार्गवाः ॥ १३ ॥

भगीरथश्चैकलव्यो मनुर्धन्वन्तरिस्तथा ।
शिविश्च रन्तिदेवश्च पुराणोद्गीतकीर्तय: ॥ १४ ॥ 

बुद्धा जिनेन्द्रा गोरक्षः पाणिनिश्च पतञ्जलिः ।
शङ्करो मध्वनिंबार्कौ श्रीरामानुजवल्लभौ ॥ १५ ॥ 

झूलेलालोSथ चैतन्यः तिरुवल्लुवरस्तथा ।
नायन्मारालवाराश्च कंबश्च बसवेश्वरः ॥ १६ ॥ 

देवलो रविदासश्च कबीरो गुरुनानकः ।
नरसिस्तुलसीदासो दशमेशो दृढव्रतः ॥ १७ ॥ 

श्रीमत् शङ्करदेवश्च बन्धू सायणमाधवौ ।
ज्ञानेश्वरस्तुकारामो रामदासः पुरन्दरः ॥ १८ ॥ 

बिरसा सहजानन्दो रामानन्दस्तथा महान्‌ ।
वितरन्तु सदैवैते दैवीं सद्गुणसंपदम्‌ ॥ १९ ॥ 

भरतर्षिः कालिदासः श्रीभोजो जकणस्तथा ।
सूरदासस्त्यागराजो रसखानश्च सत्कविः ॥ २० ॥ 

रविवर्मा भातखण्डे भाग्यचन्द्रः स भूपतिः ।
कलावंतश्च विख्याताः स्मरणीया निरन्तरम्‌ ॥ २१ ॥ 

अगस्त्यः कंबुकौण्डिन्यौ राजेन्द्रश्चोलवंशजः ।
अशोकः पुश्यमित्रश्च खारवेलः सुनीतिमान्‌ ॥ २२ ॥ 

चाणक्यचन्द्रगुप्तौ च विक्रमः शालिवाहनः ।
समुद्रगुप्तः श्रीहर्षः शैलेन्द्रो बप्परावलः ॥ २३ ॥ 

लाचिद्भास्करवर्मा च यशोधर्मा च हूणजित्‌ ।
श्रीकृष्णदेवरायश्च ललितादित्य उद्बलः ॥ २४ ॥

मुसुनूरिनायकौ तौ प्रतापः शिवभूपतिः ।
रणजितसिंह इत्येते वीरा विख्यातविक्रमाः ॥ २५ ॥

वैज्ञानिकाश्च कपिलः कणादः सुश्रुतस्तथा ।
चरको भास्कराचार्यो वराहमिहिरः सुधीः ॥ २६ ॥ 

नागार्जुनो भरद्वाजः आर्यभट्टो वसुर्बुधः ।
ध्येयो वेंकटरामश्च विज्ञा रामानुजादयः ॥ २७ ॥ 

रामकृष्णो दयानन्दो रवीन्द्रो राममोहनः ।
रामतीर्थोऽरविंदश्च विवेकानन्द उद्यशाः ॥ २८ ॥ 

दादाभाई गोपबन्धुः तिलको गान्धिरादृताः ।
रमणो मालवीयश्च श्रीसुब्रह्मण्यभारती ॥ २९ ॥ 

सुभाषः प्रणवानन्दः क्रान्तिवीरो विनायकः ।
ठक्करो भीमरावश्च फुले नारायणो गुरुः ॥३०॥ 

संघशक्तिप्रणेतारौ केशवो माधवस्तथा ।
स्मरणीयाः सदैवैते नवचैतन्यदायकाः ॥ ३१ ॥ 

अनुक्ता ये भक्ताः प्रभुचरणसंसक्तहृदयाः
अनिर्दष्टा वीराः अधिसमरमुद्ध्वस्तरिपवः ।
समाजोद्धर्तारः सुहितकरविज्ञाननिपुणाः
नमस्तेभ्यो भूयात् सकलसुजनेभ्यः प्रतिदिनम्‌ ॥ ३२ ॥ 

इदमेकात्मतास्तोत्रं श्रद्धया यः सदा पठेत्‌ ।
स राष्ट्रधर्मनिष्ठावान् अखण्डं भारतं स्मरेत्‌ ॥ ३३ ॥ 

॥ भारत माता की जय 

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा